वाचस्पत्यम्
शि(सि)क्थ || न० शिच—थक् कुक् च पृषो० सस्य शोवा । (मोम) मधूच्छिष्टे अमरः । स्वार्थे क । तत्रैव ।
शब्दकल्पद्रुमः
शिक्थं || क्ली मधुजातद्रव्यविशेषः । मोम् इति भाषा । तत्पर्य्यायः । शिक्थकम् २ मधुजम् ३ विघसम् ४ मधुसम्भवम् ५ मोदनम् ६ काचम् ७ उच्छिष्टमोदनम् ८ मक्षिकामलम् ९ क्षौद्रेयम् १० पीतरागम् ११ स्निग्धम् १२ माक्षिकजम् १३ क्षौद्रजम् १४ मधुशेषम् १५ द्रावकम् १६ माक्षिकाश्रयम् १७ मधूत्थितम् १८ मधूत्थम् १९ । अस्य गुणाः । पिच्छिलत्वम् । स्वादुत्वम् । कुष्ठवातास्रनाशित्वम् । मृदुत्वम् । कटुत्वम् । स्निग्धत्वम् । लेपेन स्फुटिताङ्गविलोपनत्वञ्च । इति राजनिर्घण्टः ॥