शिक्यित
शिक्षण
शिक्ष
वाचस्पत्यम्
शिक्ष || अभ्यासे भ्वा० आ० सक० सेट् । शिक्षते अशिक्षिष्ट ।
शब्दकल्पद्रुमः
शिक्ष || ङ शिक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ह्रस्वी । ङ, शिक्षते । शिक्षणं विद्याग्रहणम् । अशिक्षतास्त्रं पितुरेव मन्त्रविदिति रघुः । इति दुर्गादासः ॥