वाचस्पत्यम्
शिक्षित || त्रि० शिक्षा जाताऽस्य तार० इतच् शिक्ष—क्त वा । १ कृताभ्यासे २ निपुणे ३ विज्ञे च अमरः ।
शब्दकल्पद्रुमः
शिक्षितः || त्रि (शिक्ष + क्तः ।)
विज्ञः । इत्य- मरः ॥ शिक्षायुक्तः । यथा, —
“आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञा- नम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥” इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥