संस्कृत-शब्दकोशः

शिखावती शिखावर

शिखावत्

वाचस्पत्यम्

शिखावत् ||‍ पु० शिखा ज्वालाऽस्त्यस्य मतुप् मस्य वः । १ वह्नौ २ चित्रकवृक्षे च अमरः । ३ केतुग्रहे शब्दच० । ४ शिखायुते त्रि० स्त्रियां ङीप् । सा च ५ मूर्वायां शब्दच०


शब्दकल्पद्रुमः

शिखावान् || [त्] पुं, (शिखा विद्यतेऽस्य । शिखा + मतुप् । मस्य वः ।)
अग्निः । चित्रकवृक्षः । इत्यमरः ॥ केतुग्रहः । इति शब्दरत्नावली ॥ शिखायुक्ते, त्रि ॥ (यथा, मनौ । १ । ३८ श्लोके । “केतवः शिखावन्ति ज्योतींषि ।” इति मेधा- तिथिकुल्लूकौ ॥)



Correction: