संस्कृत-शब्दकोशः

शिखावर शिखावला

शिखावल

वाचस्पत्यम्

शिखावल ||‍ पुंस्त्री० शिखास्त्यस्य वलच् । १ मयूरे अमरः । स्त्रियां ङीष् । २ मयूरशिखावृक्षे स्त्री राजनि० टाप् ।


शब्दकल्पद्रुमः

शिखावलः || पुं, (शिखा विद्यतेऽस्य । शिखा + “दन्तशिखात् संज्ञायाम् ।” ५ । २ । १३३ । इति वल्च ।)
मयूरः । इत्यमरः ॥ (शिखावल- नगरम् । शिखावला स्थूणा । इति काशिका ॥)



Correction: