संस्कृत-शब्दकोशः

शिखिव्रत शिग्रुज

शिग्रु

वाचस्पत्यम्

शिग्रु ||‍ पु शि—रुक् गुक् च । (सजिना) १ वृक्षे २ शाकमात्रे च अमरः । “शोभाञ्जनो बीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः । मुखषोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः । शोभाञ्जनस्ती- क्ष्णकटुः स्वादष्णः पिच्छिलस्तथा । जन्तुवातार्त्तिशूलघ्न श्चक्षुष्यो रोचनः परः । श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुख- भङ्गः सिताह्वयः । ससूलः श्वेतमरिचो रोचनो मघु- शिग्रुकः । श्वेतशिग्रुः कटुस्तीक्ष्णः शोकाबिलनिकृन्तनः । अङ्गव्यथाहरा रुच्यो दीपनो मुखजाड्यनुत् । रक्तको रक्तशिग्रुः खान्मघुरो बहुलच्छदः । सुगन्धि केशरी सिंहो मृगारिश्च प्रकीर्त्तितः । रक्तशिग्रुमहावीर्य्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्त्तिपित्तश्लेष्माप हारकः” रालनि० ।


शब्दकल्पद्रुमः

शिग्रुः || पुं, (शेते स्वल्पेपि वायौ । शी + “जत्र्वा- दयश्च ।” उणा० ४ । १०२ । इति रुः । ह्रस्वो गुगा- गमश्च ।)
शाकम् । इत्यमरः ॥ वृक्षविशेषः । शजिना इति भाषा । तत्पर्य्यायः । हरित- शाकः २ शाकपत्रः ३ सुपत्रकः ४ उपदंशः ५ क्षमादंशः ६ कोमलपत्रकः ७ बहुमूलः ८ दंशमूलः ९ तीक्ष्णमूलः १० । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । तीक्ष्णत्वम् । वातकफमुखजाड्यव्रणदोषहरत्वम् । दीपनत्वम् । रुच्यत्वञ्च । तस्य पत्रशाकगुणाः । रुच्यत्वम् । वातकफकृमिनाशित्वम् । कटुत्वम् । उष्णत्वम् । दीपनत्वम् । पथ्यत्वम् । पाचनत्वञ्च ॥ * ॥
अपि च । “शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः । मुखमोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः ॥ शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा । जन्तुवातार्त्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥ * ॥
श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः । समूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ * ॥
रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः । सुगन्धिः केशरी सिंहो मृगारिश्च प्रकी- र्त्तितः ॥ रक्तशिग्रुर्महावीर्य्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्त्तिपित्तश्लेष्मापसारकः ॥” इति राजनिर्घण्टः ॥ (बाणप्रस्थाश्रमिणां तद्भक्षणनिषेधो यथा मनौ । ६ । १४ । “वर्ज्जयेन्मधुमांसञ्च भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥” “शिग्रुकं वाह्लीकेषु प्रसिद्धं शाकम् ।” इति मेधातिथिकुल्लूकौ ॥)



Correction: