संस्कृत-शब्दकोशः

शिच् शिञ्जा

शिज

वाचस्पत्यम्

शिज ||‍ अस्फुटध्वनौ इदित् वा चु० उभ पक्षे अदा० आत्म अक० सेट् । शिञ्जयति ते शिङ्क्ते अशिशिञ्जत् त अशि- ञ्जिष्ट । भ्वादिरप्ययं पर० इत्येके तेन शिञ्जति अशिञ्जीत्


शब्दकल्पद्रुमः

शिज || इ ल कि ङ अस्फुटध्वनौ । इति कविकल्प- द्रुमः ॥ (चुरा०-पक्षे भ्वा०-अदा० च-आत्म०- अक०-सेट् ।)
अस्फुटध्वनिरिह भूषणकर्त्तृक एव । भूषणानान्तु शिञ्जितमित्यमरात् । इ, शिञ्ज्यते । ल ङ, शिङ्क्ते । कि ङ, शिञ्जयते शिञ्जते मञ्जीरम् । तालैः शिञ्जद्वलयसुभगै- र्नर्त्तितः कान्तयाने इत्यत्र शिञ्जदिति गणकृता- नित्यत्वादिति रमानाथः । वस्तुतस्तु शिङ्क्ते शिञ्जः पचादित्वादन् ततः शिञ्ज इवाचरतीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥



Correction: