वाचस्पत्यम्
शित || त्रि० शो—क्त । १ दुर्बले २ शाकिते च मेदि० ३ कृशे विश्वः
शब्दकल्पद्रुमः
शितं || त्रि (शो तनूकरणे + क्तः । “शाच्छोरन्य- तरस्याम् ।” ७ । ४ । ४१ । इति इकारादेशः ।)
दुर्ब्बलः । निशितः । इति मेदिनी ॥ (यथा, रघौ । ६ । ४२ । “धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्रसाराम् ॥”)
कृशः । इति विश्वः ॥ (पुं, विश्वामित्रगोत्रीय ऋषिः । यथा, महाभारते । १३ । ४ । ५३ । “आङ्घ्रिको नैकट्टक् चैव शिलायूपः शितः शुचिः ॥”)