वाचस्पत्यम्
शिरःशूल || न० शिरसः शूलमिव तापकत्वात् । शूलरोगभेदे गारुडे
शब्दकल्पद्रुमः
शिरःशूलं || क्ली (शिरसः शूलम् ।)
मस्तक- वेदनारोगः । (यथा, कथासरित्सागरे । १३ । १५५ । “प्रातः सोऽपि शिरःशूलव्यपदेशेन वेष्टनम् । कृत्वा प्रच्छादयामास ललाटतटमङ्कितम् ॥”)
तस्यौषधं यथा, —
“श्वेतापराजितामूलं पिप्पलीशुण्ठिसंयुतम् । परिपिष्टं शिरोलेपात् शिरःशूलविनाशनम् ॥” इति गारुडे १८८ अध्यायः ॥