संस्कृत-शब्दकोशः

शिरस्त्र शिरस्य

शिरस्त्राण

वाचस्पत्यम्

शिरस्त्राण ||‍ न० शिरस्त्रायते अनेन त्रै—करणे ल्युट् । शिरो- रक्षण उष्णीषे हेमच० ।


शब्दकल्पद्रुमः

शिरस्त्राणं || क्ली (शिरस्त्रायते अनेन । त्रै + ल्युट् ।)
शिरोरक्षणसन्नाहः । खोपडा इति टोप् इति च भाषा । तत्पर्य्यायः । शीर्षण्यम् २ शीर्षकम ३ शिरस्कम् ४ । इति हेमचन्द्रः ॥ शिरस्त्रम् ५ । इत्यमरः ॥ (यथा, रघौ । ४ । ६४ । “अपनीतशिरस्त्राणाः शेषास्त शरणं ययुः ॥”)



Correction: