वाचस्पत्यम्
शिरि || पु० शृ—कि । १ खड्गे २ शरे २ हिंस्त्रे त्रि० उणादि० । ४ शलभे सि० कौ० ।
शब्दकल्पद्रुमः
शिरिः || पुं, (शृणात्यनेन + “कॄगॄशॄपॄकुटिभिदिछि- दिभ्यश्च ।” उणा० ४ । १४२ । इति इः । स च कित् ।)
खङ्गः । शरः । हिंस्रः । इत्युणादि- कोषः ॥ शलभः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥