वाचस्पत्यम्
शिरोधरा || स्त्री शिरोमस्तकं धरति धृ—अच् । ग्रीवायां हेमच० ।
शब्दकल्पद्रुमः
शिरोधरा || स्त्री (शिरसो धरा ।)
ग्रीवा । इति हेमचन्द्रः ॥ (यथा भागवते । ३ । १७ । १० । “सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः ॥” क्लीवलिङ्गेऽपि दृश्यते । यथा, तत्रैव । ३ । १३ । ३७ । “दीक्षानुजन्मोपसदः शिरोधरम् ॥”)