संस्कृत-शब्दकोशः

शिलारम्भा शिलाव्याधि

शिलावल्का

वाचस्पत्यम्

शिलावल्का ||‍ स्त्री शिलेव कठिनः वल्को यस्ताः । (शिस्तावाक्) इति प्रसिद्धे वृक्षभेदे शिलात्वगप्यत्र राजनि० ।


शब्दकल्पद्रुमः

शिलावल्का || स्त्री (शिलेव कठिनो वल्कों यस्याः ।)
औषधद्रव्यविशेषः । शिलावाक् इति हिन्दी भाषा । तत्पर्य्यायः । शिलजा २ शैल- वल्कला ३ वल्कला ४ शैलगर्भाह्वा ५ शिला- त्वक् ६ श्वेता ७ । अस्या गुणाः । हिमत्वम् । स्वादुत्वम् । कृच्छ्रमेहमूत्ररोधाश्मरीशूलज्वर- पित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: