वाचस्पत्यम्
शिलि || पु० शिल—कि । १ भूजपत्त्रवृक्षे शब्दमा० । द्वाराधःस्थे २ काष्ठे (गोवराट) स्त्री शब्दर० । ३ भेक्यां ४ छत्राक- पुष्पे ५ स्तम्भशीर्षे च मेदि० स्त्री ङीप् ।
शब्दकल्पद्रुमः
शिलिः || पुं, भूर्जपत्रवृक्षः । इति शब्दमाला ॥
शब्दकल्पद्रुमः
शिलिः || स्त्री द्वाराधःस्थितकाष्ठम् । इति शब्द- रत्नावली ॥ गोवराट् इति भाषा ॥