संस्कृत-शब्दकोशः

शिली शिलीन्ध्रक

शिलीन्ध्र

वाचस्पत्यम्

शिलीन्ध्र ||‍ न० शिलीं धरति धृ—क पृषो० मुम् । १ कदली- पुष्पे २ कवके च मेदि० ३ त्रिपुटायां विश्वः ।


शब्दकल्पद्रुमः

शिलीन्ध्रं || क्ली कदलीपुष्पम् । यथा, माघे । ६ । ३२ । “नवकदम्बरजोरुणिताम्बरै- रधिपुरन्ध्रिशिलीन्ध्रसुगन्धिभिः ॥”)
करका । इति मेदिनी ॥ त्रिपुटा । इति विश्वः ॥


शब्दकल्पद्रुमः

शिलीन्ध्रः || पुं, वृक्षविशेषः । इति मेदिनी ॥ मत्स्य- विशेषः । स तु चित्रफलकमत्स्यः । इति जटा- धरः ॥



Correction: