वाचस्पत्यम्
शिल्पशाला || स्त्री ६ त० । चित्रकरादोनां चित्रकरणगृहे अमरः
शब्दकल्पद्रुमः
शिल्पशाला || स्त्री क्ली, (शिल्पानां शाला ।)
स्वर्णकारादीनां कर्म्मगृहम् । कारखाना इति पारसीकभाषा । तत्पर्य्यायः । आवेशनम् २ । इत्यमरः ॥ शिल्पशाला ३ शिल्पशालम् ४ शिल्पिशालम् ५ । इति तट्टीका ॥