वाचस्पत्यम्
शिवकाञ्ची || स्त्री ६ त० । पुरीभेदे ।
शब्दकल्पद्रुमः
शिवकाञ्ची || स्त्री पुरीविशेषः । यथा, —
“शिवकाञ्ची विष्णुकाञ्ची काञ्चीयुग्गञ्च सम्मतम् एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥ काशी शिवत्रिशूलस्था काञ्ची हरिहरात्मिका वामदक्षिणहस्ताभ्यां दधार द्विजपुङ्गवाः ॥” इति भूतशुद्धितन्त्रम् ॥