संस्कृत-शब्दकोशः

शिवगति शिवङ्कर

शिवघर्मज

वाचस्पत्यम्

शिवघर्म्मज ||‍ शिवघर्माज्जायते जन—ड । मङ्गलग्रहे “पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः । अपतत् मीमवक्त्रस्य स्वेदविन्दुर्ललाटजः” इत्यादिना वीरभद्रोत्- वत्तिमुक्त्वा तस्यैव मङ्गलग्रहरूपतामाह “शान्तिप्रदानात् सर्वेषां ग्रहाणां प्रथमो भव । प्रेक्षिष्यन्तो जनाः पूजां करिष्यन्ति मतं मम । अङ्गारक इति ख्यातिं गमिष्यति धरात्मज!” मत्स्यपु० ६८ अ० ।


शब्दकल्पद्रुमः

शिवघर्म्मजः || पुं, (शिवघर्म्माज्जातः । जन् + डः ।)
मङ्गलग्रहः । अस्य प्रमाणं मङ्गलशब्दे द्रष्ट- व्यम् ॥



Correction: