वाचस्पत्यम्
शिवानी || स्त्री शिवं कल्याणमानयति आ + नी—ड गौरा० ङीष् । १ जयन्तीवृक्षे शब्दच० २ दुर्गायाञ्च ।
शब्दकल्पद्रुमः
शिवानी || स्त्री (शिवस्य भार्य्या । यद्वा, शिवं मङ्गलमानयतीति । आ + नी + डः । गौरा- दित्वात् ङीष् ।)
दुर्गा । इति लोकप्रसिद्धिः ॥ जयन्तीवृक्षः । इति शब्दचन्द्रिका ॥