संस्कृत-शब्दकोशः

शिवि शिविपिष्ट

शिविका

वाचस्पत्यम्

शिविका ||‍ स्त्री शिवं करोति शिव + णिच्—ण्वुल् अत इत्त्वम् । यानभेदे (डुली) अमरः ।


शब्दकल्पद्रुमः

शिविका || स्त्री (शिवं करातीति । शिव + णिच् ततो ण्वुल् । टापि अत इत्वम् ।)
यानविशेषः । झाँपान् इति ख्यातः । इति भरतः ॥ डुली इति पाल्को इति च भाषा । तत्पर्य्यायः । याप्य- यानम् २ । इत्यमरः ॥ शिवीरथः ३ । इति हारावली ॥ तद्दानविधिर्यथा — वह्निरुवाच । “शृणु तावन्महीपाल महादानमनुत्तमम् । येन वै दत्तमात्रेण मुच्यते नरकार्णवात् ॥ मार्गशोर्घे शुभे पक्षे समुपोष्य हरेर्द्दिने । माघफाल्गुनयोर्व्वापि वैशाखस्य शरत्सु च ॥ द्वादश्यां हरिमभ्यर्च्च कलसोपरिसंस्थितम् । शिविकां चक्रवंशोत्थां ऋजुदारुमयीं तथा ॥ आनीय सन्निधिं विष्णोः शुभ्रच्छत्रसमन्विताम् संभूष्य च सगेण्डूकां जागरं तत्र कारयेत् ॥ विद्याभिजनसम्पन्नविदग्धं शास्त्रवित्तमम् । आज्ञासारं शुचिं दक्षं कलत्रापत्यभूषितम् ॥ प्रातः सभार्य्यमभ्यर्च्य वासोभिः स्वर्णभूषणैः । उपानच्छुरिकां खङ्गां पट्टकञ्चुकवेणुकाम् ॥ आदर्शस्थगिकां पानीयपात्रं कांस्यभाजनम् । चत्वारो वृषभा देया धेनवः शुभलक्षणाः ॥ शिविकावाहकानान्तु तथा छत्रस्य धारके । वृत्तिर्देया तथान्नञ्च वर्षान्नं ब्राह्मणस्य तु ॥ वर्षे वर्षे पुनर्देयं ब्राह्मणस्य तदैव तु । वृत्तिरेव त्वसम्पत्तौ वर्षे वर्षेऽपि वार्षिकी ॥ इहामुत्रातपत्राणं कुरु केशव मे प्रभो । त्वत्प्रीणनाय मे दत्तं शास्त्रविद्ब्राह्मणाय वै ॥ यत् प्रभो शिविकां देव प्रीतो भव जनार्द्दन । दत्तवान् ज्ञानविदुषे सपत्नीकाय पुत्त्रिणे ॥ सुरापस्तयकृत्सङ्गी व्रह्महा गुरुतल्पगः । शिविकांदानमाहात्म्यात् मुच्यते नात्र संशयः ॥ पितृपक्षान्मातृपक्षान् पत्नीपक्षांस्तथैव च । आत्मानं बन्धुपक्षांश्च तारयेन्नरकार्णवात् ॥ भुक्त्वा स विपुलान् भोगान् इहामुत्र सुखप्रदान् । सपत्नीकः सपितृको विष्णुसायुज्यमश्नु ते ॥” इति वह्निपुराणे शिविकादानाध्यायः ॥



Correction: