संस्कृत-शब्दकोशः

शिष्टाचार शिष्य

शिष्टि

वाचस्पत्यम्

शिष्टि ||‍ स्त्री शास—क्तिन् । १ आज्ञायां २ शासने अमरः । ३ ताडने च “शिष्यशिष्टिरबधेन” स्मृतिः ।


शब्दकल्पद्रुमः

शिष्टिः || स्त्री (शाम + क्तिन् । “शास इदङ्हलोः ।” ६ । ४ । ३४ । इति उपधाया इः ।)
आज्ञा । शामनम् । इत्यमरः ॥ (यथा, मनुः । ४ । १६४ । “अन्यत्र पुत्त्रात् शिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥”)



Correction: