वाचस्पत्यम्
शीघ्रजन्मन् || पु० शीघ्रं जन्म यस्य । करञ्जभेदे (काँटाकरमचा) शब्दच० ।
शब्दकल्पद्रुमः
शीघ्रजन्मा || [न्] पुं, (शीघ्रं जन्म यस्य ।)
करञ्ज- विशेषः । कांटाकरञ्ज इति भाषा । यथा, —
“पूतीकः पांशुलः पोष्टा शीघ्रजन्मा कुवृत्ति- कृत् ॥” इति शब्दचन्द्रिका ॥