वाचस्पत्यम्
शीघ्रवेधिन् || पु० शीघ्र विधति विध—णिनि । शीघ्रलक्ष्य- वेधनकर्त्तरि हेमच० ।
शब्दकल्पद्रुमः
शीघ्रवेधी || [न्] पुं, (शीघ्रं विधतीति । विध छिद्रीकरणे + णिनिः ।) क्षिप्रशरवेधकर्त्ता । तत्पर्य्यायः । लघुहस्तः २ । इति हेमचन्द्रः ॥