वाचस्पत्यम्
शीतपर्णी || स्त्री शीत पर्णं यस्याः ङीप् । अर्कपर्णिकायां रत्नमा० ।
शब्दकल्पद्रुमः
शीतपर्णी || स्त्री (शीतं पर्णं यस्याः । ङीष् ।) अर्कपुष्पिका । इति रत्नमाला ॥ अर्कहुली इति भाषा ॥