शीतरम्य
शीतल
शीतरश्मि
वाचस्पत्यम्
शीतरश्मि || पु० शीतारश्मयोऽस्य । १ चन्द्रे २ कर्पूरे च ज्यो० त
शब्दकल्पद्रुमः
शीतरश्मिः || पुं, (शीतो रश्मिर्यस्य ।)
चन्द्रः । यथा, “हेलिः सूर्य्यश्चन्द्रमाः शीतरश्मिः ।” इति ज्योतिस्तत्त्वम् ॥ कर्पूरश्च ॥ चन्द्रसंज्ञक इति दर्शनात् ॥