वाचस्पत्यम्
शीतलजल || न० शीतलं जलं यस्मात् ५ ब० । १ उत्पले राजनि० । कर्म० । २ शीतले वारिणि न० ।
शब्दकल्पद्रुमः
शीतलजलं || क्ली (शीतलं जलं यस्य ।) उत्पलम् । इति राजनिर्घण्टः ॥ हिमवारि च ॥