वाचस्पत्यम्
शीतलवातक || पु० शीतलोवातो धातुभेदो यस्मात् कप् । असनपर्ण्यां शब्दच० । तत्सेवने हि वायोः शीतलता ।
शब्दकल्पद्रुमः
शीतलवातकः || पुं, (शीतलो वातो यस्य । कन् ।) अशनपर्णी । इति शब्दरत्नावली ॥ शीतल- वायुयुक्ते, त्रि ॥