संस्कृत-शब्दकोशः

शीतसहा शीताङ्गी

शीता

वाचस्पत्यम्

शीता ||‍ स्त्री श्यै—क्त सम्प्र० । १ लाङ्गलपद्धतौ भरतः २ राम- पत्न्यां शब्दच० ३ अतिबलायां ४ कुटुम्बिन्यां ५ दूर्वाया ६ शिल्पिकातृणे राजनि० ।


शब्दकल्पद्रुमः

शीता || स्त्री रामपत्नी । इति शब्दरत्नावली ॥ लाङ्गलपद्धतिः । इत्यमरटीकायां भरतः ॥ यथा, —
“शीता नभःसरिदिति लाङ्गलपद्धतौ च शीता दशाननरिपोः सहधर्म्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः ॥” इति तालव्यादौ धरणिः ॥ अतिबला । कुटुम्बिनी । दूर्व्वा । शिल्पिका- तृणम् । इति राजनिर्घ ण्टः ॥



Correction: