संस्कृत-शब्दकोशः

शीताङ्गी शीताद्रि

शीताद

वाचस्पत्यम्

शीताद ||‍ पु० शीतमादत्ते आ + दा—क । दन्तमूलगते रोगभेदे दन्तरोगशब्दे ३४६६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

शीतादः || पुं, (शीतमादत्ते इति । आ + दा + कः ।)
दन्तरोगविशेषः । तस्य निदानं दन्तशब्दे द्रष्ट- व्यम् । तदौषधं यथा, —
“शीतादे हतरक्ते तु तोयनागरसर्षपान् । निष्क्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम् ॥ कासीसलोध्रकृष्णा मनःशिला सप्रियङ्गुतेजोह्ला एतच्चूर्णं मधुयुक् शीतादे पूतिमांसहरम् ॥” तेजोह्वा तेजवला । “तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते ।” इति भावप्रकाशः ॥



Correction: