संस्कृत-शब्दकोशः

शीर्षच्छेद्य शीर्षरक्ष

शीर्षण्य

वाचस्पत्यम्

शीर्षण्य ||‍ पु० शीर्षे बध्यते शीर्ष + यत् शीर्षन्नादेशः । १ शिर- स्त्राणे अमरः । शीर्षे भवः यत् । २ विशदकेशे पु० अमरः ३ पिशदकेशयुते त्रि० ।


शब्दकल्पद्रुमः

शीर्षण्यः || पुं, (शिरसि भवः । शिरस + “शरीरा- वयवाच्च ।” ४ । ३ । ५५ । इति यत् । “वा केशेषु ।” ६ । १ । ६१ । इत्यस्य वार्त्तिकोक्त्या शीर्षन्नादेशः ।)
विशदकचः । तत्पर्य्यायः । शिरस्यः २ । इत्यमरः ॥ द्वे स्वतः स्नानादिना वा निर्म्मले अन्योन्यासंपृक्ते केशे । शीर्षे भवं शीर्षण्यं ढघे कादिति यः । पाददन्तेत्यादिना शीर्षस्य शीर्षणादेशः । इति भरतः ॥ (शिरसि- निबद्धे, त्रि । यथा, ऋग्वेदे । १ । १६२ । ८ । “शीर्षण्या रसना रज्जुरस्य ।” “शीर्षण्या शिरसि बद्धा रसना मेखला इव ।” इति तद्भाव्ये सायणः ॥ * ॥
श्रेष्ठे च त्रि । यथा, भागवते । ५ । ४ । १५ । “यद्यच्छीर्षण्याचरितं तत्तदनुवर्त्तते लोकः ॥” शीर्षण्यः श्रेष्ठस्तेनाचरितम ।” इति तट्टीका ॥)



Correction: