संस्कृत-शब्दकोशः

शीवल शुकच्छद

शुक

वाचस्पत्यम्

शुक ||‍ गतौ भ्वा० पर० सक० सेट् । शोकति अशोकीत् ।


वाचस्पत्यम्

शुक ||‍ न० शुक—क । १ ग्रन्थिपर्णे अमरः । २ वस्त्रे ३ वस्त्राञ्चले ४ शिरस्त्राणे हेमच० । ५ व्याससुते “पराशरकुलोत्पन्नः शुकोनाम महायशाः । व्यासादरण्यां संभूतो विधूमोऽ- ग्निरिव ज्वलन्” वह्निपु० । (शुया) इति ख्याते ६ खगभेदे पु० स्त्री स्त्रियां ङीष् । शुकदर्शनशुभादिकं वसन्तराज- शाकुने उक्तं यथा “वामः पठन् राजशुकः प्रयाणे शुभं भवेद् दक्षिणतः प्रवेशे । वनेचराः काष्ठशुकाः प्रयातुः स्युर्सिद्धिदाः संमुखमापतन्तः” । ७ रावणमन्त्रभेदे ८ शि- रीषवृक्षे (शेयालकाँटा) ९ वृक्षे रत्नमा० १० कश्यपत्न्या- स्ताम्रायाः कन्याभेदे स्त्री ङीष् । “काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम् । ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः” भा० आ० ६६ अ० ।


शब्दकल्पद्रुमः

शुकं || क्ली (शोभते इति । शुभ दीप्तौ + “शुक- वल्कोल्काः ।” उणा० ३ । ४२ । इति कप्रत्य- येन निपातनान् साधु ।)
ग्रन्थिपर्णम् । इत्य- मरः ॥ वस्त्रम् । वस्त्राञ्चलम् । शिरस्त्राणम् । इति हेमचन्द्रः ॥ शोणकवृक्षः । इति विश्वः ॥


शब्दकल्पद्रुमः

शुकः || पुं, (शुभ दीप्तौ + कप्रत्ययेन साधुः । उणा० ३ । ४२ ।)
पक्षिविशेषः । शुया इति वङ्ग- भाषा । शुगा इति हिन्दी भाषा । तत्पर्य्यायः । कीरः २ । इत्यमरः ॥ वक्रतुण्डः ३ । मेधावी ४ दाडिमप्रियः ५ रक्ततुण्डः ६ वक्रचञ्चः ७ चिमिः ८ चिमिकः ९ । इति शब्दरत्नावली ॥ शूकः १० प्रियदर्शनः ११ । इति जटाधरः ॥ मञ्जु- पाठकः १२ । (यथा, आर्य्यासप्तशत्याम् । ३८१ । “प्रकटयति रागमधिकं लपनमिदं वक्रिमाण- मावहति । प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥” अस्य मांसगणाः । परमवृष्यत्वम् । विपाके गुरुत्वम् । शीतलत्वन् । कासश्वासक्षयहरत्वम् । संग्राहित्वम् । लघुत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
तस्य शुभसूचकत्वं यथा, “वामः पठन् राजशुकः प्रयाणे शुभं भवेद्दक्षिणतः प्रवेशे । वनेचराः काष्ठशुकाः प्रयातुः स्युः सिद्धिदाः संमुखमापतन्तः ॥” इति वसन्तराजशाकुने ८ वर्गः ॥ * ॥
व्यासपुत्त्रः । स च परीक्षिताय श्रीमद्भागवतं श्रावयामास । तस्योत्पत्त्यादिर्यथा । हरिवंशे वायवीये च । “पराशरकुलोत्पन्नः शुको नाम महायशाः । व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन् स तस्यां पितृकन्यायां पीवर्य्यां जनयिष्यति । कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम् ॥ कन्यां कीर्त्तिमतीं षष्ठीं योगिनीं योगमातरम् । ब्रह्मदत्तस्य जननीं गृहीणीमनुहस्य च ॥” इति विष्णुपुराणे ४ अंशे १९ अध्यायटीकायां श्रीधरस्वामी ॥ वह्निपराणे प्रजापतिसर्गनामा- ध्यायेऽप्ये वम् ॥ * ॥
अपि च । “द्वैपायनाच्छुको जज्ञे भगवानेष शङ्करः । अंशेनैवावतीर्य्योर्व्यां संप्राप परमं पदम् ॥ शुकस्याप्यभवन् पुत्त्राः पञ्चात्यन्ततपस्विनः । भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः । कन्या कीर्त्तिमती चैव योगमाता धृतव्रता ॥” इति कौर्म्मे १७ अध्यायः ॥ * ॥
(अस्यान्यविधोत्पत्तिविवरणं यथा, देवीभाग- वते । १ । १४ । १ — २३ । श्रीसूत उवाच । “दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् । किं करोमि न मे योग्या देवकन्ये यमप्सराः ॥ एवं चिन्तयमानन्तु दृष्ट्वा व्यासं तदाप्सराः । भयभीता हि सञ्जाता शापं मां विसृजेदयम् ॥ सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला । कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥ कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः । मनोऽतिविस्मितं जातं सर्व्वगात्रेषु विस्मितः ॥ स तु धैर्य्येण महता निगृह्णन् मानसं मुनिः । न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥ बहुशो गृह्यमाणञ्च घृताच्या मोहितं मनः । भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥ मन्थनं कुर्व्वतस्तस्य मुनेरग्निचिकीर्षया । अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥ सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च । तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ विस्मयं जनयन् बालः संजातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ व्यासस्तु सुतमालोक्य विस्मयं परमङ्गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ गङ्गाम्भः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ! ॥ जातकर्म्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ जगुर्गन्धर्व्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ तुष्टुवुर्मुदिताः सर्व्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ अन्तरीक्षात् पपातोर्व्यां दण्डः कृष्णाजिनं शभम् कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरन्तथा ॥ यतो दृष्टं शुकीरूपं घृताच्या सम्भवे तदा । शुकेति नाम पुत्त्रस्य चकार मुनिसत्तमाः ! ॥ बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्य्यस्य चकार विधिपूर्व्वकम् ॥ सोऽधीत्य निखिलान् वेदान् सरहस्यान् ससं- ग्रहान् । धर्म्मशास्त्राणि सर्व्वाणि कृत्वा गुरुकुले शुकः ॥ गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वे कृष्णद्वैपायनस्य च ॥” अस्य दारपरिग्रहादिवृत्तान्तस्तु तत्रैव विशे- षतो द्रष्टव्यः ॥ * ॥
)
स च श्रीकृष्णस्य क्रीडार्थं वृन्दावने उपनन्दस्य कन्या अभूत् । इति पाद्मे पातालखण्डम् ॥ * ॥
रावणमन्त्री । शिरीष- वृक्षः । इति मेदिनी ॥ वृक्षविशेषः । इति रत्न- माला ॥ शेयालकाँटा इति भाषा ॥


शब्दकल्पद्रुमः

शुक || सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
शोकति । सर्पो गमनम् । इति दुर्गादासः ॥



Correction: