वाचस्पत्यम्
शुकतरु || पु० शुकप्रियस्तरुः । शिरीषवृक्षे रत्नमा० । शुकद्रुमादयोऽप्यत्र ।
शब्दकल्पद्रुमः
शुकतरुः || पुं, (शुकवत् तरुः । शुकवर्णपर्ण- विशिष्टत्वादस्य तथात्वम् । शुकप्रियस्तरुर्वा ।) शिरीषवृक्षः । इति रत्नमाला ॥