वाचस्पत्यम्
शुकादन || पु० शुकैरद्यते अद—ल्युट् । दाडिमे शब्दच० ।
शब्दकल्पद्रुमः
शुकादनः || पुं, (शुकेन अद्यतेऽसौ इति । अद् + कर्म्मणि ल्युट् ।) दाडिमः । इति शब्द- चन्द्रिका ॥ शुकस्यादनीयद्रव्यमात्रे, त्रि ॥