संस्कृत-शब्दकोशः

शुकोदर शुक्ता

शुक्त

वाचस्पत्यम्

शुक्त ||‍ न० शुच—क्त । १ मांसे शब्दच० । २ काञ्जिके हारा० । ३ अमिषूतद्रपद्रव्यभेदे “कन्दमूलफलादीनि सस्नेहलवणानि च । यद्द्रव्ये अभिसूयन्ते तच्छुक्तमभिधीयते” “शक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लघु । रूक्षं कृम्युदरा नाहशाथार्शोविषकुष्ठनुत्” राजनि० “शुक्तं यन्मधुरं कालवशादम्लत्वमागतम्” इत्युक्ते ४ पदार्थे च । शुक्तभक्षणनिषेधो यथा “अपूपाश्च करम्भाश्च धानावटकस- क्तवः । शाकं मांसमपूपं च सूपं कृशरमेव च । यवागूः पायसश्चैव यच्चान्यत् स्नेहसम्भवम् । सर्वं पर्युषितं मक्ष्यं शुक्तञ्च परिवर्जयेत्” यमः । तत्प्रतिसवो यथा “दधि शुक्तेषु भोक्तव्यं सर्वञ्च दधिसम्भवम्” मनुः । ६ निष्ठूरे त्रि० मेदि० ७ पूते ८ अम्ले त्रि० विश्वः । ९ श्लिष्टे १० निर्जने शब्दच० ११ चुक्रिकायां स्त्री शब्दर० ।


शब्दकल्पद्रुमः

शुक्तं || क्ली (शुच क्लेदे + क्तः ।)
मांसम् । इति शब्दचन्द्रिका ॥ काञ्चिकम् । इति हारावली ॥ द्रवद्रव्यविशेषः । यथा, —
“कन्दमूलफलादीनि सस्नेहलवणानि च । यत्तद्द्रव्येऽभिसूयन्ते तच्छ्रक्तमभिधीयते ॥” अस्य गुणाः । “शुक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लधु । रूक्षं कृम्युदरानाहशोथार्शोविषकुष्ठनुत् ॥” इति राजनिर्घ ण्टः ॥ * ॥
शुक्त यन्मधुरं कालवशादम्लतां गतम् । इति प्रायश्चित्तविवेकः ॥ तस्य भक्षणनिषेधो यथा । यमः । “अपूपाश्च करम्भाश्च धाना वटकशक्तवः । शाकं मांसमपूपञ्च सूपं कृशरमेव च ॥ यवागुं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् । सर्व्वं पर्य्युषितं भक्ष्यं शुक्तञ्च परिवर्ज्जयेत् ॥” तत्प्रतिप्रसवो यथा । मनुः । “दधिभक्ष्यञ्च शुक्तेषु मर्व्वञ्च दधिसम्भवम् ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च मनुः । २ । १७७ “वर्ज्जयेन्मधुर्मासञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥” “यानि स्वभावतो मधुरादिरसानि कालवशेन उदकवासादिना चाम्लवन्ति तानि शुक्तानि ।” इति तट्टीकायां कुल्लूकभट्टः


शब्दकल्पद्रुमः

शुक्तं || त्रि (शुच् + क्तः ।)
निष्ठुरम् । इति मेदिनी ॥ पूतम् । अम्लम् । इति विश्वः ॥ श्लिष्टम् । निर्ज्जनम् । इति शब्दरत्नावली ॥



Correction: