शुक्तिका
शुक्तिबीज
शुक्तिज
वाचस्पत्यम्
शुक्तिज || न० शुक्तौ जायते जन—ड । मुक्तायां हेमच० ।
शब्दकल्पद्रुमः
शुक्तिजं || क्ली (शुक्तेर्जायते यदिति । शुक्ति + जन् + डः ।)
मुक्ता । इति हेमचन्द्रः ॥ (यथा, बृहत्संहितायाम् । १२ । ४ । “प्रचलत्तिमिशुक्तिजशङ्खचितः सलिलेऽपहृतेऽपि पतिः सरिताम् ॥”)