संस्कृत-शब्दकोशः

शुक्लशाल शुक्लाङ्गी

शुक्ला

वाचस्पत्यम्

शुक्ला ||‍ स्त्री शुक्ल + अर्श आद्यच् टाप् । १ सरस्वत्यां त्रिका० । २ शर्करायां शब्दच० । ३ काकोल्यां ४ विदार्य्यां ५ स्नुह्यां राजनि० । ६ श्वेतवर्णवत्यां स्त्रियाञ्च ।


शब्दकल्पद्रुमः

शुक्ला || स्त्री (शुक्लो वर्णोऽस्त्यस्या इति । अच् । टाप् ।)
सरस्वती । इति त्रिकाण्डशेषः ॥ शर्करा । इति शब्दचन्द्रिका ॥ काकोली । विदारी । स्नु ही । इति राजनिर्घण्टः ॥ श्वेत- वर्णा च ॥



Correction: