वाचस्पत्यम्
शुङ्ग || पु० शम—ग तस्य नेत्त्वं नि० अत उत्त्वञ्च । १ वटवृक्षे २ आम्रातके ३ शूके च मेदि० । ४ पर्पटीवृक्षे ५ धान्या- दिशूके च स्त्री राजनि० ।
शब्दकल्पद्रुमः
शुङ्गः || पुं, वटवृक्षः । आम्रातकवृक्षः । इति मेदिनी ॥ शूकः । शूँया इति भाषा । इति शूकशब्दार्थे मेदिन्यु णादिकोषौ ॥