वाचस्पत्यम्
शुच्य || स्नाने अक० अभिषवे मन्यने पीडने सन्धाने च सक० भ्वा० पर० सेट् ईदित् निष्ठा अनिट् । शुच्यति अशुच्यीत् ।
शब्दकल्पद्रुमः
शुच्य || ई अभिषवे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सक०-च-सेट् । निष्ठायामनिट् ।)
तालव्यादिः । पञ्चमस्वरी । तालष्यवर्गाद्योपधः । ई, शुक्तः । यद्वा, यान्तोऽयमित्यके । अभिषवः स्नानं मन्थनं पीडनं सन्धानञ्च । इति दुर्गा- दासः ॥