वाचस्पत्यम्
शुध || शौचे शोधने सक० निःशेषभवने अक० च दि० पर० अनिट् । शुध्यति ऌदित् अशुधत् । “भक्तोहरः शुध्यकि यद्गुणः स्यादिति” लीला० ।
शब्दकल्पद्रुमः
शुध || ऌ य औ शौचे । इति कविकल्पद्रुमः । (दिवा० पर०-अक०-अनिट् ।)
ऌ, अशुधत् । य, शुध्यति लोकः स्नानात् । औ, शोद्धा । रजसा शुध्यते नारीत्यत्र शुध्यतीति क्विपि शुधं करोतीति ञौ कर्म्मणि यकि रूपम् । इति दुर्गादासः ॥