वाचस्पत्यम्
शुनकचञ्चुका || स्त्री शुनकस्येव चञ्चुः पत्रे यस्याः कप् । क्षुद्रचञ्चुक्षुपभेदे राजनि० ।
शब्दकल्पद्रुमः
शुनकचञ्चुका || स्त्री (शुनकस्य चञ्चरिव । इवार्थे कन् ।) क्षुद्रचञ्चुक्षुपः । इति राजनिर्घण्टः ॥