संस्कृत-शब्दकोशः

शुभगन्धक शुभङ्कर

शुभग्रह

वाचस्पत्यम्

शुभग्रह ||‍ पु० शुभः शुभदायकः ग्रहः । १ सौम्यग्रहे २ गुरौ शुक्रे अर्द्धाधिकचन्द्रे पापग्रहायुक्ते बुधे च ।


शब्दकल्पद्रुमः

शुभग्रहः || पुं, (शुभः ग्रहः ।)
सौम्यग्रहः । स तु गुरुः शुक्रः पापायुतबुधः अर्द्धाधिकचन्द्रश्च । यथा, —
“अर्द्धो नेन्दुः कुजो राहुः शनिस्तैर्युत इन्दुजः । रविः पापा भवन्त्ये ते शुभाश्चान्ये प्रकीर्त्तिताः ॥” इति सारसंग्रहः ॥ तद्वारे शुभकर्म्मकरणं यथा, —
“शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च । शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥” इति संस्कारतत्त्वम् ॥



Correction: