संस्कृत-शब्दकोशः

शुल्ल शुल्वारि

शुल्व

वाचस्पत्यम्

शुल्व ||‍ न० शुल्व—अच् । १ ताम्रे २ रज्जौ च अमरः ३ जलसमीपे ४ आचारे ५ यज्ञकार्य्ये च मेदि० ।


वाचस्पत्यम्

शुल्व ||‍ माने दाने च चु० उभ० सक० सेट् । शुल्वयति ते अशु- शुल्वत् त ।


शब्दकल्पद्रुमः

शुल्व || क माने । सर्गे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक-सेट् ।)
पञ्चमस्वरयुक्त- स्तालव्यादिरन्तःस्थतृतीयोपधः । सर्गः सृष्टिः । क, शुल्वयति वेधाः पृथिवीं परिमाति सृजति वा इत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शुल्वं || क्ली (शुल्वयत्यनेनेति । शुल्व माने + घञ् । यद्वा, शुच शोके + “उल्वादयश्च ।” उणा० ४ । ९५ । इति वन्प्रत्ययेन निपातनात् साधु )
ताम्रम् । रज्जुः । इत्यमरः ॥ (यथा, भागवते । २ । ७ । ३० । “गृह्णीत यद्यदुपबन्धममुष्य माता शुल्वं सुतस्य न तु तत्तदमुष्य माति ॥”)
ताम्रपात्रपक्वान्नभोजनदोषो यथा, —
“ताम्रे पक्त्वा चक्षुर्हानिर्मणौ भवति वै क्षयम् ।” इति मत्स्यसूक्ते ४२ पटलः ॥ यज्ञकर्म्म । आचारः । जलसन्निधिः । इति मेदिनी ॥



Correction: