वाचस्पत्यम्
शुष्काङ्ग || पु० शुष्कमङ्गमस्य । १ धववृक्षे (धगाछ) २ शुष्काव- यवयुते त्रि० स्त्रियां ङीष् । सा च ३ गोधिकायां शब्दच०
शब्दकल्पद्रुमः
शुष्काङ्गः || पुं, (शुष्कं अङ्गं यस्य ।) धववृक्षः । इति वैद्यकम् ॥ स्ने हशून्यावयवे, त्रि ॥