संस्कृत-शब्दकोशः

शूकदंष्ट्रक शूकपिण्डि

शूकधान्य

वाचस्पत्यम्

शूकधान्य ||‍ न० शूकयुक्तं धान्यम् शाक० । यवादौ धान्ये अमरः । “व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत् शूकधान्यमथ मुद्गमकुष्ठकादि । शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बीधान्यं तृणोद्भवमथो तृणधान्यमन्यत् । तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्य विवृद्धिदायि । देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नो नरैर्दैवतैर्वा” राजनि० । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु” राजवल्लभः ।


शब्दकल्पद्रुमः

शूकधान्यं || क्ली (शूकविशिष्टं धान्यम् ।)
शुङ्गा- युक्तशस्यमात्रम् । स तु धान्ययवादिः । यथा, —
“व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत् शूकधान्यमथ मुद्गमकुष्ठकादि । शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बी- धान्यं तृणोद्भवमथो तृणधान्यमन्यत् ॥” अस्य गुणाः । “तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तैर्दैवतेर्व्वा ॥” इति राजनिर्घण्टः ॥ अपि च । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु ॥” इति राजवल्लभः ॥ अन्यच्च । “यवस्तुसितशूकः स्यात् निःशूकोऽतियवः स्मृतः तोक्मस्तद्वत् स हरितस्ततः स्वल्पश्च कीर्त्तितः ॥ यवः कषायो मधुरः शीतलो लेखनो मृदुः । व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्द्धनः ॥ कटुपाकोऽनभिष्यन्दी सर्य्यो बलहरो गुरुः । बहुवातमलो वर्णस्थैर्य्यकारी च पिच्छिलः । कण्ठत्वगामयश्ले ष्मपित्तमेदप्रणाशनः ॥ पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् । अस्मादतियवो न्यू नस्तोक्मो न्यूनतरस्ततः ॥” इति भावप्रकाशः ॥



Correction: