संस्कृत-शब्दकोशः

शूद्रार्ता शूद्रासुत

शूद्रावेदिन्

वाचस्पत्यम्

शूद्रावेदिन् ||‍ स्त्री शूद्रां विन्दति विद—णिनि उप० । शूद्र- जातिस्त्रिया विवाहकर्त्तरि । “शूद्रायेदी पतत्यत्रेः” मनुः “कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः । शूद्रैव भार्य्या शूद्रस्य सा च खा च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः” इति मनुना कामतश्चातु- र्वर्ण्यविवाहे विहितेऽपि शूद्रावेदीत्यस्याधिकदोषार्थता द्विजातिस्त्रीलाभे शूद्रस्त्रीविवाहनिषेधार्थता च । स च विवाहः युगान्तरविषथः कलौ असवर्णस्त्रीविवाहनिषेधात् कलिशब्दे १८०३ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

शूद्रावेदी || [न्] पुं, (शूद्रां विन्दतीति । विद् + णिनिः ।)
शूद्रविवाहकर्त्ता । यथा, —
“शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च । शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥” इति दायभागः ॥



Correction: