वाचस्पत्यम्
शूरण || पु० शूर—ल्यु । (ओल) १ मूलभेदे अमरः “शूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः । विष्टम्भी बिशदो रुच्यः कफार्शःकृन्तनो लघुः । विशेषादर्शसे पथ्यः प्लोहगुल्नविनाशनः । सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते । दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः । सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः” भावप्र० । २ शोणाकवृक्षे च शब्दमाला ।
शब्दकल्पद्रुमः
शूरणः || पुं, (शूर्य्यते इति । शूर हिंसे + ल्युः ।)
मूलविशेषः । ओल इति भाषा । तत्पर्य्यायः । अर्शोघ्नः २ कन्दः ३ । इत्यमरः ॥ सूरणः ४ । इति तट्टीका ॥ ओलः ५ । इति जटाधरः ॥ ओल्लः ६ । इति मेदिनी ॥ कण्डूलः ७ कन्दी ८ सुकन्दी ९ स्थूलकन्दकः १० द्गर्नामारिः ११ सुवृत्तः १२ वातारिः १३ कन्दशूरणः १४ तीव्रकण्ठः १५ कन्दार्ह्यः १६ कन्दवर्द्धनः १७ बहुकन्दः १८ रुच्यकन्दः १९ शूरणकन्दः २० । अस्य गुणाः । कटुत्वम् । रुच्यत्वम् । दीपनत्वम् । पाचनत्वम् । कृमिकफानिलश्वासकासवमनार्शः शूलगुल्मनाशित्वम् । अस्रदोषकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः विष्टम्भी विषदो रुच्यः कफार्शः कृन्तनो लघुः ॥ विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः । सर्व्वेषां कन्दशाखानां शूरणः श्रेष्ठः उच्यते ॥ दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः । सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः ॥” इति भावप्रकाशः ॥ अन्यच्च । “शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः । विशेषादर्शसां पथ्यो ग्राम्यकन्दस्तु दोषलः ॥” इति राजवल्लभः ॥ श्योनाकवृक्षः । इति शब्दमाला ॥