संस्कृत-शब्दकोशः

शूलिन् शूलोत्खा

शूली

वाचस्पत्यम्

शूली ||‍ स्त्री शूलं पत्त्राकारे अस्त्यस्य अच् गौरा० ङीष् । शूलाकारपत्त्रयुते स्वनामख्याते तृणभेदे राजनि० ।


शब्दकल्पद्रुमः

शूली || स्त्री तृणभेदः । तत्पर्य्यायः । शूलपत्री २ अशाखा ३ धुम्रमूलिका ४ जलाश्रया ५ मधु- लता ६ पिच्छिला ७ महिषीप्रिया ८ । अस्या गुणाः । पिच्छिलत्वम् । कोष्णत्वम् । गुरुत्वम् । गौल्यत्वम् । बलप्रदत्वम् । पित्तदाहहरत्वम् । रुच्यत्वम् । दुग्धवृद्धिकारित्वञ्च । इति राज- निर्घण्टः ॥



Correction: