वाचस्पत्यम्
शृगालकण्टक || पु० शृगालस्तद्दन्त इव कण्टको यस्य । (शे- यालकाँटा) क्षुपभेदे शब्च० ।
शब्दकल्पद्रुमः
शृगालकण्टकः || पुं, (शृगालरोधकः कण्टको यस्व ।) क्षुपविशेषः । इति शब्दचन्द्रिका ॥ शेयालकाटा इति भाषा ॥