वाचस्पत्यम्
शृङ्गाट || पु० शृङ्गं प्राधान्यमटति अट—अण् । १ उत्तरस्थ पर्वतभेदे २ चतुष्पथे ३ जलकण्टकिवृक्षे च ४ तत्फले न० । “शृङ्गाटकं हिमं स्वादु गुरु वृव्यं कषायकम् । ग्राहि शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनम्” भावप्र० । स्वार्थे क । तत्र, चतुष्पथे अलङ्कारोक्ते बन्धभेदरूपे शब्दालङ्कारे च । स च पर्वतः कामाख्यादेशस्थः यथोक्तं कालिकापु० ८२ अ० यथा “द्वीववत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः । तत्र भ- र्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम् । सरित्तु सिद्धा त्रि- स्तोता दक्षिणोदधिगामिनी । शृङ्गाटकस्य सततं स्वतन्ती ग्राव्णि पाततः । दक्षिणं सागरं याति भर्गस्य प्रिय- कारिणी । पक्वमांसभेदे तत्माकविधिर्यथा “शुष्कभासं तनूकृत्य कर्त्तितं स्वेदितं जले । लवङ्गं हिङ्गुसहित लवणार्द्रकसंयुतम् । एलाजीरकधम्याकनिम्बूरससम- न्वितम् । वृते सगन्धे तद्भ्रष्टं पूरणं प्रोच्यते बुधैः । शृङ्गाटकं समितया कृतं पूरणपूरितम् । पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत् । मांसं शृङ्गाटकं रुच्यं वृंहणं बलकृत् गुरु । वातपित्तहरं वृष्यं कफर्घ्न वीर्य्य- बर्द्धनम्” भावप्र० ।
शब्दकल्पद्रुमः
शृङ्गाटं || क्ली (शृङ्गमुत्कर्षं अटतीति । अट् + अच् ।)
चतुष्पथम् । इति हेमचन्द्रः धरणिश्च ॥
शब्दकल्पद्रुमः
शृङ्गाटः || पुं, (शृङ्गवत् कण्टकं अटतीति । अट् + अच् ।)
जलकण्टकः । इति भूरि- प्रयोगत्रिकाण्डशेषौ ॥ स्वादुकण्टकः । इति शब्द रत्नावली ॥ कामाख्यादेशस्थपर्व्वतः । यथा, —
“दीपवत्याः पूर्व्वतस्तु शृङ्गाटो नाम पर्व्वतः । तत्र भर्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम् ॥ सरित्तु सिद्धा त्रिस्रोता दक्षिणोदधिगामिनी । शृङ्गाटकस्य सततं स्वनन्ती ग्राव्लिपादतः । दक्षिणं सागरं याति भर्गस्य प्रियकारिणी ॥ सलिले यो नरः स्नाति तिस्रोतायां नरोत्तमः । शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् ॥ स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् । अन्ते भर्गगृहं याति ततो मोक्षमवाप्नु यात् ॥” इति कालिकापुराणे ८२ अध्यायः ॥