वाचस्पत्यम्
शैत्य || न० शीतस्य भावः ष्यञ् । शीतलत्वे ।
शब्दकल्पद्रुमः
शैत्यं || क्ली (शीतस्य भावः शीत + “वर्णदृढा- दिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्य ञ ।)
शीतलत्वम् । यथा, —
“शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रुमः शुचितां भवन्ति शुचयः स्पर्शेन यस्या- परे । किं वान्यत् कययामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुं क्षमः ॥” इति लक्ष्मणसेनः ॥